Friday, December 05, 2014

सौ०का० स्वाति चि० अक्षय  विवाहावसरे शुभकामना संदेशः



 अक्षय स्वाति विवाह प्रणय अनुबन्धम्।
शुभं भवतु ॠषि कृत प्राचीन प्रबन्धम्।।

प्राचीन भारतीय ॠषियों द्वारा अनुप्रणीत सामाजिक प्रबन्धन के अनुसार
स्वाति और अक्षय  का विवाह शुभ और कल्याण प्रद हो।

भारतीय संस्कृत्यनुसारं शुचि षोडष संस्कारम्।
श्रेष्ठाश्रमं गृहस्थ आश्रमं सदाचरण व्यवहारम्।
सप्तपदी मैत्री कृतवन्तौ सप्त जन्म सम्बन्धम्।।

भारतीय संस्कृति में पवित्र सोलह संस्कार एवं चार आश्रमों की व्यवस्था देकर सदाचरण
और सद्व्यवहार की प्रेरणा दी गई है। जिसमें गृहस्थ आश्रम को सर्व श्रेष्ठ माना गया है।
इस आश्रम में प्रवेश करते समय सात परिक्रमा साथ साथ करके पति पत्नी सात जन्मों के संबन्ध तय करते हैं।

मंगल कलशः मृत्तिका दीपं तोरण द्वार पुनीतम्।
हरित्पत्र मण्डपाच्छदनं मन्त्रं मंगल गीतम्।
शुभं हरिद्रा युक्त चन्दनं व्याप्तं दिव्य सुगन्धम्।।

विवाह समारोह में मंगल कलश मिट्टी के दिये पवित्र तोरण द्वार बनाकर हरे पत्तों से युक्त मण्डप के नीचे
मन्त्रोच्चार और मधुर गीतों से वातावरण उल्लासमय हो गया है।शुभ हल्दी युक्त चन्दन की सुगन्ध सारे वातावरण में व्याप्त है।

स्थितौ नव वर वधू मण्डपे नीत्वा निज जयमालाम्।
राम जानकी वत् शोभेते जनकपुरी मिथिलायाम्।
दृष्ट्वा संमनोहरं दृश्यं प्राप्नुवन्ति आनन्दम्।।

इस पवित्र मण्डप में अपने हाथों में जयमाला लिये खड़े ये नव युगल उसीतरह शोभित हो रहे हैं
जैसे जनकपुरी मिथिला में राम और जानकी शोभायमान हैं। ऐंसे मनोहर दृश्य को देखकर
समस्त एकत्रित बन्धु बान्धव आनन्दित हो रहे हैं।

 पितरौ गीता अनिल कुमार कटारे सह परिवारम्।
इष्टमित्र चातिथिभिर्सहितं प्रमुदति बारं बारम्।
सर्वे कन्यादानं कृत्वा प्राप्नुवन्ति आनन्दम्।।

कन्या के माता पिता श्रीमती गीता अनिल कुमार कटारे परिवार अपने इष्टमित्र और
मेहमानों के साथ कन्यादान करके आनन्दित हो रहे हैं।

सर्वैषु दानेसु उत्तमं उक्तं कन्यादानम्।
अन्यं दानं क्षणं क्षीयते धनमन्नं सम्मानम्।
समधी श्री हरीश पा़ण्डेय प्रहसति मन्दं मन्दम्।।

समस्त प्रकार के दानों में कन्यादान को श्रेष्ठ कहा गया है।क्यों कि अन्न धन आदि सभी दान बहुत शीघ्र
समाप्त हो जाते हैं जबकि कन्यादान से कुल बढ़ता ही जाता है। इस प्रकार का श्रेष्ठ दान प्राप्त करके वर के
पिता श्री हरीश पा़ण्डेय मन्द मन्द मुस्कुरा रहे हैं।

खलु भवेत् नव युगल जीवने सत्यं ज्ञान प्रकाशः।
वर्धयेन्नित्यं परस्परं प्रेम त्याग विश्वासः।
काम क्रोध लोभ संमोहाः प्रमुच्येत् भव बन्धम्।।

मैं भगवान से प्रार्थना करता हूँ कि इस नव दम्पति के जीवन में सत्य और ज्ञान का प्रकाश हो और
 हमेशा परस्पर प्रेम त्याग और विश्वास बढ़ता रहे। ये काम क्रोध लोभ मोह आदि बन्धनों से मुक्त होकर अपने जीवन का लक्ष्य प्राप्त करें।

                                                                              विनीतः
शुभाकांक्षी                                                     अनिल कटारे एवं समस्त कटारे परिवार
शास्त्री नित्यगोपाल कटारे

Tuesday, August 27, 2013

केयूरा न बिभूषयन्ति पुरुषं   हारा न चन्द्रोज्वलाः
न स्नानं न विलेपनं न कुसुमं नालंक‌‍ृताः मूर्धजाः।
वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।।


Friday, May 13, 2011


Sunday, November 01, 2009

जयतु मध्यप्रदेशः

जयतु मध्यप्रदेशः

बुन्देलं च बघेलखण्डं निमाणं मालवादिनाम्।
पवित्र भूमेर्जातः मध्यप्रदेशस्तु कथ्यते।।

परमाति विशालोऽयं प्रदेशो मध्यभारतः।
कृष्णा उर्वरा भूमिः युक्तो वन खनिज सम्पदाभिः।।
बहन्ति नर्मदा चम्बल नद्यः वेत्रवत्यादयः।
स्थितौ प्रहरी इवारण्यौ सतपुड़ा विन्ध्याचलौ।।

भोजो विक्रमादित्यः अहिल्या दुर्गावती।
आदर्शाः राजनयिकानां सत्य न्याय प्रजाप्रियाः
भोपालमस्य राजधानी वनखण्ड परिवेष्टिता।
विविधाः सांस्कृतिक केन्द्राः इन्दौरे च जबलपुरे।।

पचमढीव प्रकृति सौन्दर्यं खजुराहो इव कलाकृतिः।
स्वर्गः पर्यटकानां कला सौन्दर्य ज्ञानिनाम्।।
उज्जयिन्यां महाकालं सांची ओंकारेश्वरम्।
मोक्षदः तीर्थ यात्रिभ्यः संमिलति कुम्भमेलकः।।

माखनलाल चतुर्वेदी परसाई हरिशंकरः।
भवानीप्रसाद मिश्रश्च भूमिः साहित्यधर्मिणाम्।।
शिवराजसिंह चौहानः नेतृत्वे मुख्यमन्त्रिणः
विकासशीलः चाग्रसरः नित्यं उन्नति पथे।।

शास्त्री नित्यगोपाल कटारे

Monday, June 16, 2008

वेदमन्त्रपाठः

वेदमन्त्रपाठः

श्रूयताम्     
हरिः ॐ।। सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्।
सभूमिं सर्व्वतस्पृत्वात्यतिष्ठद्दशाङ्गुलम्।।१

पुरुषऽएवेदं सर्व्वंय्यद्भूतंय्यच्चभाव्यम्।
उतामृतत्वस्येशानोयदन्नेनातिरोहति।।२

एतावानस्यमहिमातोज्ज्यायाँश्चपूरुषः
पादोस्यव्विश्वाभूतानित्रिपादस्यामृतन्दिवि।।३

त्रिपादूर्ध्वऽउदैत्पुरुषः पादोस्येहाभवत्पुनः।
ततोव्विष्ष्वङ्व्यक्रामत्त्साशनानशनेऽअभि।।४

ततोव्विराडजायतव्विराजोऽअधिपूरुषः।
सजातोअत्यरिच्यतपश्चाद्भूमिमथोपुरः।।५

तस्माद्यज्ञात्सर्व्वहुतःसम्भृतम्पृषदाज्यम्।
पशूँस्ताँश्चक्रेव्वायव्यानारण्याग्ग्राम्याश्चये।।६

तस्माद्यज्ञात्सर्व्वहुतऽॠचः सामानि जज्ञिरे।
छन्दां सिजज्ञिरेतस्माद्यजुस्तस्मादजायत।।७

तस्मादश्वाऽअजायन्तयेकेचोभयादतः।
गावोहजज्ञिरेतस्मात्तसमाज्जाताऽअजावयः।।८

तंय्यज्ञम्बर्हिषिप्प्रौक्षन्न्पुरुषञ्जातमग्ग्रतः।
तेनदेवाऽअयजन्तसाद्ध्या ॠषयश्चये।।९

यत्परुषंव्यदधुःकतिधाव्यकल्पयन् ।
मुखङ्किमस्यासीत्किम्बाहूकिमूरूपादाऽउच्च्येते।।१०

ब्राह्मणोस्यमुखमासीद्बाहूराजन्यः कृतः।
ऊरूतदस्ययद्वैश्यःपद्भ्यां शूद्रोऽअजायत।।११

चन्द्रमामनसोजातश्चक्षोःसूर्योऽअजायत।
श्श्रोत्राद्वायुश्श्चप्प्राणश्चमुखादग्निरजायत।।१२

नाभ्याऽआसीदन्तरिक्षं शीष्णोर्द्यौःसमवर्त्तत।
पद्भ्याम्भूमिर्दिशःश्रोत्रांत्तथालोकाँ२ऽअकल्पयन्।।१३

यत्पुरुषेणहविषादेवायज्ञमतन्वत।
व्वसन्तोऽस्यासीदाज्यंग्रीष्मऽइध्मःशरद्धविः।।१४

सप्तास्यासन्न्परिधयस्त्रिः सप्तसमिधःकृताः।
देवायद्यज्ञन्तन्न्वानाऽअबध्नन्पुरुषम्पशुम्।।१५

यज्ञेनयज्ञमयजन्तदेवास्तानिधर्म्माणिप्प्रथमाण्यासन्।
तेहनाकंमहिमानः सचन्तयत्रपूर्व्वेसाद्ध्याः सन्तिदेवाः।।१६

अद्भ्यः सम्भृतःपृथिव्यैरसाच्चव्विश्वकर्म्मणःसमवर्त्तताग्रे।
तस्यत्त्वष्टाव्विदधद्रूपमेतितन्न्मर्त्यस्यदेवत्वमाजानमग्रे।।१७

व्वेदाहमेतम्पुरुषंम्महानतमादित्यवर्णन्तमसःपरस्तात्।
तमेवव्विदित्त्वातिमृत्युमेति नान्यःपन्थाव्विद्यतेयनाय।।१८

प्रजापतिश्चरतिगर्ब्भेऽअन्तरजायमानोबहुधाव्विजायते।
तस्ययोनिम्परिपश्यन्तिधीरास्तस्मिन्हतस्थुर्भुवनानिव्विश्वा।।१९

योदेवेब्भ्यऽआतपतियोदेवानाम्पुरोहितः।
पूर्व्वोयोदेवेब्भयोजातोनमोरुचायब्राह्मये।।२०

रुचम्ब्राह्मञ्जनयन्तोदेवाऽअग्रेतदब्रुवन्।
यस्त्वैवम्ब्राह्ञणोव्विद्यातस्यदेवाऽअसन्वशे।।२१

श्रीश्चतेलक्ष्मीश्चपत्क्न्यावहोरात्रेपार्श्वेनक्षत्राणिरूपमश्विनौव्व्यत्तम्।
इष्णन्निषाणामुम्मऽइषाणसर्व्वलोकम्मऽइषाण।।

Thursday, January 31, 2008

भोजनव्यवहारः

suniyeरमेशः ॒ अम्ब! अम्ब! भवती किं करोति?
अम्बा ॒ वत्स ! किं आवश्यकम्?
रमेशः ॒ अरे ! महती बुभुक्षा अस्ति। शीघ्रं भोजनं ददातु।
अम्बा ॒ भोजनं तु सिद्धं अस्ति़। सर्वान् शीघ्रं आह्वयतु।
रमेशः ॒ हे तात ! शीघ्रं आगच्छतु। भगिनि ! भवती अपि आगच्छतु।अम्बा भोजनं परिवेषयति।
भगिनी ॒ अम्ब ! अद्य भोजने किं किं अस्ति?
अम्बा ॒ अद्य भोजने ओदनं सूपः शाकं रोटिकाः पर्पटः पायसं च अस्ति।
रमेशः ॒ कस्य व्यंजनं अस्ति?
अम्बा ॒ आलुकं गोजिह्वयोः शाकं अस्ति।
रमेशः ॒ अम्ब ! अद्य कः विशेषः ? किमर्थं पायसं निर्मितवती?
अम्बा ॒ अद्य जन्माष्टमी अस्ति अतःपायसं कृतवती।
पिता ॒ कथं भोजन समये बहु भाषणं भवति? भोजनकाले भाषणं बिना भोजनं करणीयम्।
भगिनी ॒ अम्ब ! शाकं बहु स्वादिष्टम् अस्ति।
रमेशः ॒ अम्ब! सूपे लवणमेव नास्ति।
अम्बा ॒ अरे ! विस्मृतं ।लचणं स्वीकरोतु।चमसेन योजयतु।
पिता ॒ मम कृते आमरसं उपदंशं परिवेषयतु हरितमरीचिकां अपि ददातु।
अम्बा ॒ किं भोः भवान् बहु कटु खादति।अधिकं कटु खादनेन क्रोधः वर्धते।किंचदेव स्वीकरोतु।
भगिनी ॒ किंचित् तक्रं ददातु।
अम्बा ॒ आम् स्वीकरोतु।सर्वे सावधानं भोजनं कुर्वन्तु।
पिता ॒ भोजनं तु पर्याप्तं। जलं ददातु।
अम्बा ॒ जलं तु भवतः चषके अस्ति।जलपात्रमपि समीपे अस्ति। भोजनानन्तरं सर्वे स्थालीम् अत्रैव स्थापयन्तु।

Tuesday, October 30, 2007

संस्कृतसंभाषणम्

suniye
सुरेशः-- नमस्कारः नमो नमः कल्पने ! नमस्कार कल्पना
कल्पना -- सुरेश ! नमस्कारः नमो नमः कथं अस्ति भवान् ? सुरेश ! नमस्कार कैसे हैं आप ?
सुरेशः-- सर्वं कुशल मंगलं अस्ति । भवती कथं अस्ति? सब कुशल मंगल है आप कैसी हैं?
कल्पना --अहमपि प्रसन्नास्मि। मैं भी प्रसन्न हूँ।
सुरेशः-- काचित् नवीना वार्ता ? और कोई नया समाचार ?
कल्पना -- भवान् एव श्रावयतु। आप ही सुनाइये ।
सुरेशः-- इदानीम् बहु शैत्यं अस्ति । इस समय बहुत ठण्ड है।
स्वल्पं चायं चलिष्यति? थोड़ी चाय चलेगी ?
कल्पना -- कथं न ? भवता सह अवश्यमेव चायं पातुमिक्ष्यामि।
क्यों नहीं? आपके साथ जरूर चाय पीना चाहूँगी।
सुरेशः-- तर्हि आगच्छतु स्ल्पाहार गृहे गच्छाव । तो आइये स्ल्पाहार गृह में चलें।
कल्पना - चलतु भवान्। चलिये