Wednesday, January 31, 2007

यक्ष-युधिष्ठिर-संवादः
यक्ष-युधिष्ठिर-संवादः
यक्ष- किंस्विद् गुरुतरं भूमेः किंस्विदुच्चतरं च खात्।
किंस्विच्छीघ्रतरं वायोः किंस्विद् बहुतरं तृणात्।।1
युधिष्ठिर- माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात्।।2
यक्ष- किंस्वित् प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः।
आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः।।3
युधिष्ठिर- सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः।
आतुरस्य भिषड् मित्रं दानं मित्रं मरिष्यतः।।4
यक्ष- किन्नु हित्वा प्रियो भवति किन्नु हित्वा न शोचति।
किन्नु हित्वाऽर्थवान भवति किन्नु हित्वा सुखी भवेत्।।5
युधिष्ठिर- मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति।
कामं हित्वाऽर्थवान् भवति लोभं हित्वा सुखी भवेत्।।6
यक्ष- तपः किं लक्षणं प्रोक्तं को दमश्च प्रकीर्तितः।
क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता।।7
युधिष्ठिर- तपः स्वधर्म वर्तित्वं मनसो दमने दमः।
क्षमा द्वन्द्व सहिष्णत्वं ह्रीरकार्यनिवर्तनम्।। 8
यक्ष- कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः।
कीदृशश्च स्मृतः साधुः असाधुः कीदृशः स्मृतः।।9
युधिष्ठिर- क्रोधः सुदुर्जयः शत्रुः लोभो व्याधिरनन्तकः।।
सर्व भूतहितः साधुः असाधुर्निर्दयः स्मृतः।। 10

0 Comments:

Post a Comment

<< Home