संहतिः कार्यसाधिका
श्रूयताम्
संहतिः कार्यसाधिका
गोदावरी तीरे कश्मिंश्चित् विशाल शाल्मलीतरौ विहगाः नाना देशेभ्यः आगत्य रात्रौ निवसन्ति स्म।एकदा प्रातः जालम् आदाय विहगान् अन्वेष्टुं कश्चित् व्याधः इतः ततः परिभ्रमन् तत्रागच्छत्। ततः सः व्याधः वने तण्डुलान् विकीर्य जालं च प्रसार्य स्वयं प्रच्छन्नः अभवत्। एतस्मिन् अन्तराले चित्रग्रीवाभिधानः कश्चित् कपोतराजः सपरिवारः तान् तण्डुलान् दृष्ट्वा अनुयायिनः कपोतान् अवदत् ।अस्मिन् निर्जने वने तण्डुलानां संभवः कुतः ?तत् भद्रं इदं न पश्यामि।
श्रूयताम्
यतः अनिष्टात् इष्टलाभः अपि न वरम् । एतत् श्रुत्वा कपोतेषु कश्चित् पण्डितं मन्यः दुर्बुद्धिः सदर्पं अवदत् -- अहो अस्मिन् भूतले सर्वं अन्नं पानं च शंकाभिः आक्रान्तम् । संशयात्मा विनश्यति ।अति सर्वत्र वर्जयेत् इति विचार्य अस्माभिः अत्र शंका न कर्तव्या। तदनन्तरं ते लुब्धाः कपोताः तण्डुलेषु अपतन् जालेन च बद्धाः अभवन् ।ततः सर्वे कपोताः तं पण्डितमन्यं भृशं आक्रोशन् -- भो दुर्मते त्वयैव वयं अस्मिन् जाले पातिताः ।ततः चित्रग्रीवः तान् अकथयत् --भो नायं अस्य दोषः ।विपत्काले धैर्य त्यागः कापुरुषस्य लक्षलणम्। कार्यस्य विफलतायां गणस्य अग्रणी एव निन्दाम् आप्नोति । उक्तं च--
श्रूयताम्
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् ।
यदि कार्य विपत्तिः स्यान्मुखरस्तत्र हन्यते।।
तत् अत्र वयं धैर्येण संहत्य चिन्तयाम । संहत्यै च मतैक्यम् आवश्यकम् । सर्वे संहताः जालम् आदायैव गण्डकी तीर वासिनः मूषकराजस्य हिरण्यकस्य समीपे गच्छामः ।सः मम सुहृद् एतान् पाशान् छेत्स्यति । तदैव तस्य वचनानि श्रुत्वा सर्वे कपोताः संहताः जालम् एव गृहीत्वा उदपतन् ।तान् जालापहारकान् कपोतान् दृष्टवा पश्चात् धावन् सः व्याधः अचिन्तयत्
श्रूयताम्
यदा एते विवदिष्यन्ति तदा मम वशं एष्यन्ति । परं कपोतेषु दूरं अतिक्रान्तेषु सः व्याधः भग्न मनोरथः न्यवर्तत्। हिरण्यकेन छिन्न पाशाः कपोताः कृतज्ञतया तं प्रशंसन्ति स्म ।भो मित्र धन्यः त्वं महनीयं च तवौदार्यम्। केनचित् साधूक्तम्---
अल्पानामपि वस्तूनां संहतिः कार्य साधिका ।
तृणैर्गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः।।
0 Comments:
Post a Comment
<< Home