नष्टा मन्दविसर्पिणी
श्रूयताम्
नष्टा मन्दविसर्पिणी
पुरा कश्चिदेकः महाराजः आसीत्। रस्य शय्यायां मन्दविसर्पिणी नाम यूका वसति स्म़ सा यूका महाराजस्य रक्तम् आस्वादयन्ती सुखेन जीवति स्म। एकदा अग्निमुखः नाम कश्चित् मत्कुणः तां शय्यां आगतवान् । तं दृष्ट्वा मन्दविसर्पिणी उक्तवती ,,भो मत्कुण ! भवान् किमर्थं अत्र आगतवान्? भवता अत्र न स्थातव्यम्। शीघ्रमेव इतः गच्छतु ,, इति ।
तदा अग्निमुखः उक्तवान् ,, आर्ये ! अहं बहुजनानां रक्तम् आस्वादितवान् । परन्तु कुत्रापि मधुरं रक्तं न लब्धम्।भवती अनुमति ददाति चेत् एतस्य महाराजस्य मधरं रक्तं पीत्वा मम जीवनं सार्थकं करोमि ,,इति ।
श्रूयताम्
मन्दसर्पिणी उक्तवती ,, भोः अग्निमुख ! अहम् अनुमतिं ददामि .। परन्तु महाराजः यदा निद्रावशः भवति तदा अहं प्रथमं तस्य रक्तं पिबामि । तदनन्तरम् एव भवता रक्तं पातव्यम् । त्वरा न करणीया इति । अस्तु अहं तथैव करोमि इति अग्निमुखः अंगीकृतवान् ।
कश्चित् कालानन्तरं महाराजः तत्र आगतवान् शय्यायां सुप्तवान् च । महाराजस्य इतोऽपि निद्रा न आगता आसीत् ।तदानीमेव जिह्वाचापालं निरोद्धुम् असमर्थः उत्थितवान् । सेवकान् आज्ञापितवान् ,, भोः सेवकाः ! शय्यायां किमस्ति ? इति शीघ्रमेव पश्यन्तु ।
सर्व अपि सेवकाः सर्वाणि शय्या वस्त्राणि परिशीलितवन्तः । अत्रान्तरे मत्कुणः मञ्चस्य रन्ध्रे प्रविष्टवान् । सेवकाः वस्त्र मध्ये स्थितां मन्दसर्पिणीं दृध्टवन्तः मारितवन्तः च ।
एवं दुष्टाय मत्कुणाय आश्रयदानेन मन्दसर्पिणी स्वयं नष्टा । अतः दुष्टेभ्यः आश्रयः न दातव्यः ।
0 Comments:
Post a Comment
<< Home