Friday, February 02, 2007

गजगामिनि

श्रूयताम्
गच्छसि कुत्र अरी गजगामिनि ।
हँससि किमर्थं त्वं माम दृष्ट्वा ,
तिष्ठ क्षणं हे कामिनि।

श्रूयताम्
मार्गे चलसि सर्वतः पश्यसि ,
हे घनविद्युद्दामिनि।
खण्ड-खण्डितं पण्डित हृदयं
मममन-अन्तर्यामिनि।।
गच्छसि कुत्र अरी गजगामिनि ।

श्रूयताम्
स्वात्मानं पश्यन्त्यादर्शे ,
लज्जास्मित-गौरांगिनि।
अधोमुखी विलोकयसि धरणीं ,
निजस्वरूप-अभिमानिनि।।
गच्छसि कुत्र अरी गजगामिनि ।

श्रूयताम्
कथयसि कथं न किं कामयसे,
हे भावी-गृहस्वामिनि।
शीघ्रं कुरु हर मम परितापं ,
कामज्वर-अपहारिणि।।
गच्छसि कुत्र अरी गजगामिनि ।

श्रूयताम्
हे लघु वस्त्रे हे नयनास्त्रे ,
हे मम मनोविलासिनि।
मा कुरु वक्र-दृष्टि-प्रक्षेपं
भो भो मारुति-वाहिनि।।
गच्छसि कुत्र अरी गजगामिनि

0 Comments:

Post a Comment

<< Home