Wednesday, January 31, 2007

त्याज्यं न धैर्यम्

त्याज्यं न धैर्यम्
श्रूयताम्
आसीत् समुद्रसमीपे फलैः पूरितः जम्बुवृक्षः।तस्मिन् वृक्षे बलिष्ठः रक्तमुखनामकः वानरः वसति स्म।एकदा करालमुखः नामकः मकरः वानरं अपश्यत् अचिन्तयत् च यत् अयं वृक्षवासी स्वस्थः चंचलः निर्भीकः इव प्रतिभाति अयं मम सहचरो भवतु इति मत्वा प्रतिदिनं सस्नेहं वार्तां करोति। वानरः अपि कथयति यत् भवान् मम अतिथिः।खादतु मधुराणि फलानि उक्तं च-ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।भुंक्ते भोजयते चैव षडविधं प्रीति लक्षलणम्।।
श्रूयताम्
नाना विध कथा प्रसंगेन तौ उभौ अपि सुखेन कालः नयतः स्म। एकदा करालमुखः मकरः भक्षितशेषाणि जम्बुफलानि गृहं गत्वा भार्यायै यच्छति। मकरी तानि फलानि खादित्वा मकरं कथयति-अहो तव मित्रं प्रतिदिनं एतादृशानि मधुराणि फलानि खादति , तस्य हृदयं कीदृशं मधुरं भवेत्। तमानय। मकरः प्रत्युत्तरति-कथं इदं शक्यम् ? मित्रस्य मरणं न चिन्तयामि। मकरी वदति -अहं न जानामि। तम् अवश्यं आनय अन्यथा उपवासं कृत्वा जीवनं त्यजामि ।भर्यायाः कथनेन मकरः वानरं कथयति॒ तव भ्रातृजाया त्वां स्मरति ।
श्रूयताम्
अद्य मम गृहे तव भोजनं अस्ति। वानरः कथयति- अहं तु तरणे असमर्थः । कथमहं त्वया सह गच्छेयम्?मकरः वदति- भवान् चिन्तां मा करोतु।त्वां पृष्ठे उपवेश्य नयामि। सरल हृदयः वानरः तस्य पृष्ठं उपविशति। जल मध्ये गत्वा मकरः पृच्छति- जानासि किम् ? कमर्थं त्वां नयामि इति? त्वदीयं मधुरं हृदयं खादितुं इच्छति तव भ्रातृजाया। वानरः धैर्येण प्रतिवदति ,पूर्वं कथं न कथितं त्वया? मम हृदयं कोटरे तिष्ठति । यदि मम हृदयेन एवं कार्यं तदा नास्ति मम आपत्तिः । परन्तु तदर्थं मां तं वृक्षं प्रति नय ।
श्रूयताम्
मूर्खः मकरः तीरं प्रति आगच्छति , तदा वानरः उत्प्लुत्य वृक्षं आरुह्य वदति- भो मूर्ख न कोऽपि जीवः हृदयं बिना जीवति । न वा तत् पृथक् कर्तुं शक्यते। अतः त्वं गच्छ पत्नीं च प्रीणय -समाप्ता आवयोः मैत्री। उक्तं च--
समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते।
स एव दुर्गं तरति जलस्थो वानरो यथा।।

0 Comments:

Post a Comment

<< Home