Sunday, March 04, 2007

चर्पटपञ्जरिका

आद्य शंकराचार्य कृत चर्पटपञ्जरिका

श्रूयताम्
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते।
प्राप्ते सन्निहते मरणे नहि नहि रक्षति डुकृञ् करणे।।१


श्रूयताम्
बालस्तावत् क्रीडासक्तस्तरुणस्तावत्तरुणीरक्तः।

वृद्धस्तावच्चिन्तामग्नः पारे ब्रह्मणि कोऽपि न लग्नः।।२

अंगं गलितं पलितं मुण्डं दशन विहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम्।।3


श्रूयताम्

पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम्।
इह संसारे खलु दुस्तारे कृपयाऽपारे पाहि मुरारे।।४

दिनमपि रजनी सायं प्रातः शिशिर वसन्तौ पुनरायातौ।
कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः।।५

श्रूयताम्
जटिलो मुण्डी लुञ्चित केशः काषायाम्बर बहुकृत वेशः।
पशयन्नपि च न पश्यति लोकः उदर निमित्तं बहु कृत वेशः।।६

वयसि गते कः काम विकारः शुष्के नीरे कः कासारः।
क्षीणे वित्ते कः परिवारः ज्ञाते तत्वे कः संसारः।।७

श्रूयताम्
अग्रे वह्निः पृष्ठे भानू रात्रौ चिबुक समर्पितजानुः।
करतल भिक्षा तरुतलवासः तदपि न मुञ्चत्याशापाशः।।८

यावत् वित्तोपार्जनसक्तस्तावन् निजपरिवारे रक्तः।
पश्चाज्जर्जर भूते देहे वार्ता कोऽपि न पृच्छति गेहे।।९

श्रूयताम्
रथ्याकर्पट विरिचित कन्थः पुण्यापुण्य विवर्जित पन्थः।
न त्वं नाहं नायं लोकः तदपि किमर्थं क्रियते शोकः।।१०

नारीस्तन भर जघन निवेशं मिथ्या माया मोहावेशम्।
एतन्मांस वसादि विकारं मनसि विचारय वारंवारम्।।११

श्रूयताम्
गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रम्।
नेयं सज्जन संगे चित्तं देयं दीनजनाय च वित्तम्।।१२

भगवद्गीता किञ्चिद्धीता गंगा जल लव कणिका पीता।
येनाकारि मुरारेरर्चा तस्य यमः किं कुरुते चर्चाम्।।१३

श्रूयताम्
कोऽहं कस्त्वं कुत आयातः का मे जननी को मे तातः।
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम्।।१४

का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः।
कस्य त्वं वा कुत आयातः तत्वं चिन्तय तदिदं भ्रातः।।१५

सुर तटिनी तरु मूल निवासः शय्याभूतल मजिनं वासः।
सर्व परिग्रह भोगत्यागः कस्य सुखं न करोति विरागः।।१६

श्रूयताम्
कुरुते गंगा सागर गमनं व्रतपरिपालनमथवा दानम्।
ज्ञानविहीने सर्वमतेन मुक्तिर्न भवति जन्म शतेन ।।१७