Wednesday, January 31, 2007

षष्ठी-विभक्ति

षष्ठी-विभक्ति-
हस्तस्य भूषणं दानं ,सत्यं कण्ठस्य भूषणम् ।
श्रोतस्य भूषणं शास्त्रं, भूषणैः किं प्रयोजनम्।।
shrooyatam=soono=listen
षष्ठी-विभक्ति-एकवचनस्य अधोलिखितानि रूपाणि भवन्ति।
अकारान्त पुंल्लिंग=
रामः=रामस्य,
गोपालः=गोपालस्य
,नृपः=नृपस्य,
हस्तः=हस्तस्य ,
सूर्यः=सूर्यस्य,
चन्द्रः=चन्द्रस्य,
बालकः=बालकस्य इत्यादयः।
इकारान्त पुंल्लिंग=
रविः= रवेः,
मुनिः=मुनेः
शशिः= शशेः
कविः= कवेः,
हरिः= हरेः,
पतिः= पतेः
इत्यादयः।
उकारान्त पुंल्लिंग=
भानुः= भानोः ,
गुरुः= गुरोः
मनुः= मनोः,
राहुः= राहोः
केतुः= केतोः
साधुः= साधोः इत्यादयः।
ऋकारान्त पुंल्लिंग=
पितृ= पितुः
भ्रातृ= भ्रातुः
दातृ= दातुः
भर्तृ= भर्तुः,
नेतृ= नेतुः
आकारान्त स्त्रीलिंग=
सीता= सीतायाः,
गीता= गीतायाः
सुमित्रा= सुमित्रायाः
गंगा= गंगायाः ।
ईकारान्त स्त्रीलिंग=
नदी= नद्याः
गौरी= गौर्याः
देवकी= देवक्याः,
गोपी= गोप्याः
जानकी= जानक्याः।
नपुंसकलिंगस्य रूपाणि पुंल्लिंग वत् भवन्ति।
अधोलिखितान् शब्दान् प्रयोजयन्तु ।
कस्य पत्नी का? कस्याः पतिः कः अस्ति?
रामः - माण्डवी
भरतः -सीता
लक्षमणः -श्रुतिकीर्तिः
शत्रुघ्नः -उर्मिला
दशरथः- कौशल्या
वसुदेवः- देवकी
कस्य- कस्याः पुत्रः कः?
रामः --कौशल्याल
क्षमणः-- सुमित्रा
कृष्णः --देवकी
कस्य गुरुः कः? कस्य शिष्यः कः अस्ति?
द्रोणाचार्यः --अर्जुनः
वशिष्ठः--- रामः
सान्दीपनिः-- कृष्णः
परसुरामः --कर्णः
यथा-लक्षमणस्य पत्नी उर्मिला
ऊर्मिलायाः पतिः लक्षमणः अस्ति।
दशरथस्य पत्नी कौशल्या,कौशल्यायाः पतिः दशरथः अस्ति।
रामस्य माता कौशल्या,कौशल्यायाः पुत्रः रामः अस्ति।
कृष्णस्य गुरुः सान्दीपनिः,सान्दीपनेः शिष्यः कृष्णः अस्ति।
सर्वान् शब्दान् नीत्वा वाक्यनिर्माणं कुर्वन्तु।

त्याज्यं न धैर्यम्

त्याज्यं न धैर्यम्
श्रूयताम्
आसीत् समुद्रसमीपे फलैः पूरितः जम्बुवृक्षः।तस्मिन् वृक्षे बलिष्ठः रक्तमुखनामकः वानरः वसति स्म।एकदा करालमुखः नामकः मकरः वानरं अपश्यत् अचिन्तयत् च यत् अयं वृक्षवासी स्वस्थः चंचलः निर्भीकः इव प्रतिभाति अयं मम सहचरो भवतु इति मत्वा प्रतिदिनं सस्नेहं वार्तां करोति। वानरः अपि कथयति यत् भवान् मम अतिथिः।खादतु मधुराणि फलानि उक्तं च-ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।भुंक्ते भोजयते चैव षडविधं प्रीति लक्षलणम्।।
श्रूयताम्
नाना विध कथा प्रसंगेन तौ उभौ अपि सुखेन कालः नयतः स्म। एकदा करालमुखः मकरः भक्षितशेषाणि जम्बुफलानि गृहं गत्वा भार्यायै यच्छति। मकरी तानि फलानि खादित्वा मकरं कथयति-अहो तव मित्रं प्रतिदिनं एतादृशानि मधुराणि फलानि खादति , तस्य हृदयं कीदृशं मधुरं भवेत्। तमानय। मकरः प्रत्युत्तरति-कथं इदं शक्यम् ? मित्रस्य मरणं न चिन्तयामि। मकरी वदति -अहं न जानामि। तम् अवश्यं आनय अन्यथा उपवासं कृत्वा जीवनं त्यजामि ।भर्यायाः कथनेन मकरः वानरं कथयति॒ तव भ्रातृजाया त्वां स्मरति ।
श्रूयताम्
अद्य मम गृहे तव भोजनं अस्ति। वानरः कथयति- अहं तु तरणे असमर्थः । कथमहं त्वया सह गच्छेयम्?मकरः वदति- भवान् चिन्तां मा करोतु।त्वां पृष्ठे उपवेश्य नयामि। सरल हृदयः वानरः तस्य पृष्ठं उपविशति। जल मध्ये गत्वा मकरः पृच्छति- जानासि किम् ? कमर्थं त्वां नयामि इति? त्वदीयं मधुरं हृदयं खादितुं इच्छति तव भ्रातृजाया। वानरः धैर्येण प्रतिवदति ,पूर्वं कथं न कथितं त्वया? मम हृदयं कोटरे तिष्ठति । यदि मम हृदयेन एवं कार्यं तदा नास्ति मम आपत्तिः । परन्तु तदर्थं मां तं वृक्षं प्रति नय ।
श्रूयताम्
मूर्खः मकरः तीरं प्रति आगच्छति , तदा वानरः उत्प्लुत्य वृक्षं आरुह्य वदति- भो मूर्ख न कोऽपि जीवः हृदयं बिना जीवति । न वा तत् पृथक् कर्तुं शक्यते। अतः त्वं गच्छ पत्नीं च प्रीणय -समाप्ता आवयोः मैत्री। उक्तं च--
समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते।
स एव दुर्गं तरति जलस्थो वानरो यथा।।

संहतिः कार्यसाधिका


श्रूयताम्

संहतिः कार्यसाधिका
गोदावरी तीरे कश्मिंश्चित् विशाल शाल्मलीतरौ विहगाः नाना देशेभ्यः आगत्य रात्रौ निवसन्ति स्म।एकदा प्रातः जालम् आदाय विहगान् अन्वेष्टुं कश्चित् व्याधः इतः ततः परिभ्रमन् तत्रागच्छत्। ततः सः व्याधः वने तण्डुलान् विकीर्य जालं च प्रसार्य स्वयं प्रच्छन्नः अभवत्। एतस्मिन् अन्तराले चित्रग्रीवाभिधानः कश्चित् कपोतराजः सपरिवारः तान् तण्डुलान् दृष्ट्वा अनुयायिनः कपोतान् अवदत् ।अस्मिन् निर्जने वने तण्डुलानां संभवः कुतः ?तत् भद्रं इदं न पश्यामि।

श्रूयताम्
यतः अनिष्टात् इष्टलाभः अपि न वरम् । एतत् श्रुत्वा कपोतेषु कश्चित् पण्डितं मन्यः दुर्बुद्धिः सदर्पं अवदत् -- अहो अस्मिन् भूतले सर्वं अन्नं पानं च शंकाभिः आक्रान्तम् । संशयात्मा विनश्यति ।अति सर्वत्र वर्जयेत् इति विचार्य अस्माभिः अत्र शंका न कर्तव्या। तदनन्तरं ते लुब्धाः कपोताः तण्डुलेषु अपतन् जालेन च बद्धाः अभवन् ।ततः सर्वे कपोताः तं पण्डितमन्यं भृशं आक्रोशन् -- भो दुर्मते त्वयैव वयं अस्मिन् जाले पातिताः ।ततः चित्रग्रीवः तान् अकथयत् --भो नायं अस्य दोषः ।विपत्काले धैर्य त्यागः कापुरुषस्य लक्षलणम्। कार्यस्य विफलतायां गणस्य अग्रणी एव निन्दाम् आप्नोति । उक्तं च--


श्रूयताम्
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् ।
यदि कार्य विपत्तिः स्यान्मुखरस्तत्र हन्यते।।
तत् अत्र वयं धैर्येण संहत्य चिन्तयाम । संहत्यै च मतैक्यम् आवश्यकम् । सर्वे संहताः जालम् आदायैव गण्डकी तीर वासिनः मूषकराजस्य हिरण्यकस्य समीपे गच्छामः ।सः मम सुहृद् एतान् पाशान् छेत्स्यति । तदैव तस्य वचनानि श्रुत्वा सर्वे कपोताः संहताः जालम् एव गृहीत्वा उदपतन् ।तान् जालापहारकान् कपोतान् दृष्टवा पश्चात् धावन् सः व्याधः अचिन्तयत्

श्रूयताम्
यदा एते विवदिष्यन्ति तदा मम वशं एष्यन्ति । परं कपोतेषु दूरं अतिक्रान्तेषु सः व्याधः भग्न मनोरथः न्यवर्तत्। हिरण्यकेन छिन्न पाशाः कपोताः कृतज्ञतया तं प्रशंसन्ति स्म ।भो मित्र धन्यः त्वं महनीयं च तवौदार्यम्। केनचित् साधूक्तम्---
अल्पानामपि वस्तूनां संहतिः कार्य साधिका ।
तृणैर्गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः।।

भर्तृहरि पद्यानि

भर्तृहरि पद्यानि

श्रूयताम्
श्रोत्रं श्रुतैनैव न कुण्डलेन
दानेन पाणिर्न तु कंकणेन
विभाति कायः करुणापराणां
परोपकारैर्न तु चन्दनेन।।१

श्रूयताम्
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहिता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारभ्य चोत्तम जनाः न परित्यजन्तिः।।२

श्रूयताम्
सम्पत्सु महतां चित्तं भवत्युत्पल कोमलम्।
आपत्सु च महाशैल शिलासंघात कर्कशम्।।३

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्र लक्षणमिदं प्रवदन्ति सन्तः।।४

श्रूयताम्
क्वचिद् भूमौ शय्या क्वचिदपि च पर्यंकशयनः
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदन रुचिः।
क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्।।५

एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।
क्रियते भास्करेणैव परिस्फुरित तेजसा।।६।

भारतस्य वरदपुत्रः स्वामी विवेकानन्दः

श्रूयताम्
भारतस्य वरदपुत्रः स्वामी विवेकानन्दः
सन्ति बहबो भारतस्य वरद-पुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः।सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्।बंगप्रान्तस्य कोलकता नगरे श्री विश्वनाथदत्त महोदयस्य गृहे त्रिषष्ठ्यधिकाष्टादश शततमे (१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्मः अभवत्। तदा तस्य नाम नरेन्द्रनाथ दत्तः इति आसीत्।एषः उत्साही , हास्यप्रियः,करुणापरः, नरेन्द्रः बाल्ये ,मयूरान् ,कपोतान् च पालयति स्म।एषः पितुः हयान् अपि रक्षति स्म।अध्ययनपटुरयं नरेन्द्रः शास्त्रीय संगीतं व्यायामं च आचरति स्म।

श्रूयताम्
ध्यानसिद्धः अयं ज्योतिरेकं पश्यति स्म।ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान् ? इति। ईश्वरं ज्ञातुं पाश्चात्य दर्शनस्य भारतीय दर्शनस्य च गंभीरं अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातक पदवीं अधिगतवान्।अस्मिन्नेव समये दैवयोगात् दक्षणेश्वरस्थ काली मन्दिरे परमहंस रामकृष्णदेवं पृष्टवान् यत् किं भवान् ईश्वरं दृष्टवान् ? इति। आम्। त्वामिव ईश्वरमपि पश्यामि इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः अस्य अध्यात्म-गुरुः अभवत्।सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्द इति अभवत्।अयं च नरेन्द्रः भारत भ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादश (१८९३) तमे वर्षे अमेरिका देशस्य शिकागो नगरे विश्वधर्म सभायां भारतस्य गौरवं प्रतिष्ठापितवान् ।

श्रूयताम्
तत्र सभास्थले विविध धर्मग्रन्थाः अन्योन्योपरि स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेभ्यः अधस्तात् आसीत् । एकः अमेरिकावासी उपहासेन अवदत्--स्वामिन् ।'' भवतां गीता सर्वेभ्यः धर्मग्रन्थेभ्यः अधः वर्तते ''।प्रत्युत्पन्नमतिः भारतीयसंस्कृतिं प्रति हृदयानुरागी स्वामी विवेकानन्दः प्रहसन्नेव प्रत्यवदत्--आम् । सत्यं ।आधारशिला तु अधः एव भवति ।एतस्यां बहिराकृष्टायां सर्वं भूमौ पतिष्यन्ति।विदेशेषु वेदान्त धर्मस्य प्रचारं कुर्वन् स्वदेशं आगत्य देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा ,स्वास्थ्यरक्षा,स्त्रीशिक्षा ,आधुनिकप्रौद्योगिकी प्रभृति क्षेत्रेषु असाधारणं कार्यं कर्तुं रामकृष्णमिशन इति संस्थां स्थापयित्वा जनेषु चेतनाजागरणं कृतवान्।स्वामिविवेकानन्दस्य अयं संदेशःअद्यापि भारतीयान् प्रेरयति यत् --उत्तिष्ठत , जाग्रत ,प्राप्य वरान्निबोधत।

मातुराज्ञा गरीयसी
(महाकवि भासरचितं नाटकं मध्यमव्यायोगात् गृहीतम् )
मातुराज्ञा गरीयसी
(ततः प्रविशति सुतत्रयकलत्रसहितः केशवदासः पृष्ठतः घटोत्कचः च )
घटोत्कचः -- भो वृद्ध । इहैव तिष्ठ।पदम् अपि अग्रे न गन्तव्यम् ।
वृद्धः -- भो पुरुष।किमर्थम् अस्मान् अग्रे गमनात् निवारयसि?
घटोत्कचः -- मम माता उपवास निसर्गार्थम् एकं मानुषं माम् आनेतुम् आदिशत् । अतः अहं भवत्सु एकं नेष्यामि।
वृद्धः-- प्रिये नास्ति मोक्षः राक्षसात् ।अहमेव अनेन सह गच्छामि। मया सांसारिक भोगाः भुक्ताः।अतः निज शरीर दानेन कुलं रक्षितुम् इच्छामि।
घटोत्कचः -- अपसरतु भवान् ।मम माता वृद्धं नेच्छति।
पत्नी-- आर्य । तर्हि मम शरीरेण रक्षितव्यम् कुलम्।
घटोत्कचः -- नहि नहि स्त्री जनो न अभिमतः तत्रभवत्या।
प्रथमः पुत्रः-- ज्येष्ठोऽहं कुलस्य रक्षणार्थे प्राणान् दातुमिच्छामि।
तृतीयः पुत्रः-- ज्येष्ठः भवान् कुलं पालयतु। अहं प्राणान् ददामि।
द्वितीयः पुत्रः-- त्वं कनिष्ठोऽसि ।तव प्राण त्यागः नोचितः।
(घटोत्कचं प्रति) भो पुरुष ।अहं त्वया सह चलामि।
घटोत्कचः -- प्रीतोऽस्मि आगच्छ चलावः
द्वितीयः पुत्रः-- क्षणं तिष्ठतु भवान् ।वनान्तरे जलाशयात् अहं पिपासां शमयितुं इच्छामि।
घटोत्कचः -- गत्वा पिपासां शमय। शीघ्रं आगन्तव्यम्।अतिक्रामति मातुः आहारवेला।
द्वितीय पुत्रः--भो तात ।एष गच्छामि। (निष्क्रान्तः)
घटोत्कचः -- चिरायते कुमारः ।(ज्येष्ठं प्रति) अयि कुमार ।किं नाम तव भ्रातुः?
प्रथम पुत्रः-- तस्य नाम मध्यमः इति।
घटोत्कचः -- भो मध्यम , मध्यम ।शीघ्रं आगच्छ।( ततः प्रविशति भीमसेनः )
भीमसेनः--कोऽयं मध्यम मध्यम इति शब्दैः मम व्यायामविघ्नं उत्पादयति । अस्तु पश्यामि ।(घटोत्कचं दृष्ट्वा ) भो पुरुष ।ब्रुहि किमर्थं माम् आह्वयसि ?अहं अस्मि मध्यमः।
घटोत्कचः -- (आत्मगतम्) न खलु अयं कुमारः।किम् एषः अपि मध्यमः? (प्रकाशम्) अहं मध्यमं शब्दापयामि।
भीमसेनः--अतः खल्वहं प्राप्तः।
घटोत्कचः -- किं भवान् अपि मध्यमः?
भीमसेनः--न तावदपरः। अहमेव भ्रातृणां मध्यमः।
वृद्धः--भो मध्यम।अस्मान् परित्रायस्व ।एष राक्षसः अस्मान् हन्तुमिच्छति'।
भीमसेनः--भो पुरुष। किमर्थं वृद्धस्य परिवारं त्रासयसि ? मुञ्च एनम्।
घटोत्कचः--न मुञ्चामि । मातुराज्ञया गृहीतोऽयम्।
भीमसेनः--(आत्मगतम्) कथं मातुराज्ञया इति।माता किल मनुष्याणां देवतानां च दैवतम्।मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः।।(प्रकाशम्)किं नाम भवतः माता?
घटोत्कचः--हिडिम्बा।
भीमसेनः--(आत्मगतम्) एवम् हिडिम्बायाः पुत्रोऽयम्।सदृशो हि अस्य गर्वः।(घटोत्कचं प्रति) आदेशय गृहमार्गम्।
घटोत्कचः--अनुसरतु माम्। (सर्वे परिक्रामन्ति) भोः इदमस्माकम् गृहम्।( गृहं प्रविश्य अम्बां प्रति) अम्ब। आनीतः तब चिराभिलसितः मानुषः।
हिडिम्बा-- (भीमसेनम् अवलोक्य) जयतु आर्यपुत्रः ।
घटोत्कचः--भवति कोऽयम्?
हिडिम्बा-- उन्मत्तक । दैवतम् अस्माकम्।अभिवादय पितरम्।
घटोत्कचः--तात। घटोत्कचोऽहम् अभिवादये।मम चापलं क्षन्तुमर्हसि।
भीमसेनः--एहि पुत्र एहि ।(उभौ परिष्वजतः)
वृद्धः-- भो वृकोदर । रक्षितमस्मत्कुलम्, स्वकुलमुद्धृतं च । गच्छामस्तावत्।( निष्क्रान्तः सकलपुत्रः केशवदासः)
भीमसेनः--हिडिम्बे । वत्स घटोत्कच ।इतस्तावत् ।केशवदासं आश्रमपद द्वारमात्रं त्यक्त्वा सम्मावयिष्यामः।( सर्वे निष्क्रान्तः)।

यक्ष-युधिष्ठिर-संवादः
यक्ष-युधिष्ठिर-संवादः
यक्ष- किंस्विद् गुरुतरं भूमेः किंस्विदुच्चतरं च खात्।
किंस्विच्छीघ्रतरं वायोः किंस्विद् बहुतरं तृणात्।।1
युधिष्ठिर- माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात्।।2
यक्ष- किंस्वित् प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः।
आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः।।3
युधिष्ठिर- सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः।
आतुरस्य भिषड् मित्रं दानं मित्रं मरिष्यतः।।4
यक्ष- किन्नु हित्वा प्रियो भवति किन्नु हित्वा न शोचति।
किन्नु हित्वाऽर्थवान भवति किन्नु हित्वा सुखी भवेत्।।5
युधिष्ठिर- मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति।
कामं हित्वाऽर्थवान् भवति लोभं हित्वा सुखी भवेत्।।6
यक्ष- तपः किं लक्षणं प्रोक्तं को दमश्च प्रकीर्तितः।
क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता।।7
युधिष्ठिर- तपः स्वधर्म वर्तित्वं मनसो दमने दमः।
क्षमा द्वन्द्व सहिष्णत्वं ह्रीरकार्यनिवर्तनम्।। 8
यक्ष- कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः।
कीदृशश्च स्मृतः साधुः असाधुः कीदृशः स्मृतः।।9
युधिष्ठिर- क्रोधः सुदुर्जयः शत्रुः लोभो व्याधिरनन्तकः।।
सर्व भूतहितः साधुः असाधुर्निर्दयः स्मृतः।। 10

हिन्दी दिवसस्यावसरे भावनाञ्जलिः
हिन्दीछन्दालंकारयोरलंकृता
सन्धि-समासयोः संकुचिता
प्रत्ययोपसर्ग-वस्त्रावृता
व्याकरणेनानुशासिता
हिन्दी संस्कृतस्य सुता ।।१

दुःख दारिद्र्य-नाशिनी
स्वातन्त्र्य-पथ-प्रकाशिनी
जन-गण-मन-भाव भाषिणी
सरला मधुरा च सुवासिनी
हिन्दी भारतस्य राष्ट्रभाषा।।२

वर्ण-शब्दैकोच्चारिणी
हिन्दैकता-सूत्रधारिणी
सर्व-जन-हितकारिणी
हिन्दी गंगा राष्ट्रोद्धारिणी।।३

बहु-विशिष्टताभिपूर्णा
विज्ञान-परीक्षायामुत्तीर्णा
सद्साहित्यैर्परिपूर्णा
हिन्दी भारतवर्षस्यान्नपूर्णा।।४

शुभकामना सहितः
शास्त्री नित्यगोपाल कटारे

विचित्रः आशीर्वादः

श्रूयताम्

विचित्रः आशीर्वादः
गुरु नानकः स्वशिष्यैः सह सर्वदा देशभ्रमणं करोति स्म। तदुपदेशान् श्रोतुं जनाः एकत्रिताः भवन्ति स्म। एकदा स एकं ग्रामं गतवान्। ग्रामवासिनः महता उत्साहेन सशिष्यस्य गुरुनानकस्य स्वागतं आतिथ्यं च कृतवन्तः। परम श्रद्धया तस्य उपदेशं श्रुत्वा ते आनन्दिताः जाताः। तेषां हृदयेषु शान्तिः मुखेषु कान्तिः अराजेताम्। एवं कतिपय दिनानि व्यतीतानि।गुरुनानकः ततः प्रस्थातुं ऐच्छत् ।सर्वे ग्राम वासिनः प्रार्थयन् --भवान् अन्यत्र मा गच्छतु।अत्रैव वसतु। वयं सर्वाः व्यवस्थाः कल्पयिष्यामः।
श्रूयताम्
किन्तु गुरुनानकः तस्मात् ग्रामात् गन्तुमेव मतिम् अकरोत्। प्रस्थानवेलायां स तेभ्यः ग्रामवासिभ्यः --'' सर्वे भवन्तः स्थानभ्रष्टाः भवेयुः। युष्माकं ग्रामः अपि नश्यतु।इति आशीर्वादं दत्तवान्।सर्वे स्तब्धाः मौनं आस्थिताः,किन्तु किमपि न पृष्टवन्तः।तत्पश्चात् ते अन्य ग्रामं प्रति प्रचलिताः।तत्रत्याः जनाः बहुदुष्टाः आसन् ।न ते तस्य स्वागतं अकुर्वन्, न च तस्य उपदेशं आकर्णयन्।अपमानितोऽपि श्रीनानकः धृतिं धारयन् तत्र न्यवसत्। अन्तिमे दिने गमन समये स तान् ग्रामवासिनः -- ''समृद्धया सुखैः च अत्रैव वसन्तु भवन्तः''इति आशीर्वचोभिःअनुगृहीतवान्।

श्रूयताम्
शिष्याः विचित्रं आशीर्वादं श्रुत्वा चकिताः आसन्।तेषु एकतमः साहसं कृत्वा नतिपूर्वकं पृषटवान् --आचार्य भवतः आशीर्वादस्य कः आशयः इति ज्ञ।तुं वयं न शक्ताः।सज्जनाः स्थानभ्रष्टाः दुष्टाश्च समृद्धाः सन्तु इति कीदृशी एषा नीतिः? कृपया समाधानं कुर्वन्तु भवन्तः।गुरुनानकः सस्मितं अकथयत्--सज्जनाः यदा संकटे पतन्ति नाशं च अनुभवन्ति ते जीविकार्थं अन्यत्र गच्छन्ति ।ते यत्र गच्छन्ति ,तत्र सौरभं किरन्ति।तेषां संगतिं प्राप्य लोकाः सुखं शान्तिं च लभन्ते।
श्रूयताम्
तेषां सहवासेन अन्ये अपि सज्जनाः भवन्ति ।तेन लोकस्य हितं भवति।अतः संकटापन्नाः सज्जनाः जीविकायै अन्यत्र गत्वा उपकुर्वन्तु--इति मम वचनस्य आशयः। दुष्टाः यदि सर्वत्र गमिष्यन्ति तर्हि ते तत्रापि जनान् पीडयिष्यन्ति। अतः ते अन्यत्र न गच्छेयुः--एष द्वितीयस्य वचनस्य अभिप्रायः।गुरोः वचनेन समाहिताः शिष्याः श्रृद्धया प्रणामं कृत्वा अग्रिमं ग्रामं प्रति प्रस्थिताः।

सूक्तयः
सूक्तयः
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता ।
जहाँ नारियों की पूजा होती है वहाँ देवता रमते हैं।
शठे शाठ्यं समाचरेत्
दुष्ट के साथ दुष्टता का ही व्यवहार करना उचित है।
आचार्य देवो भव।
आचार्य को देवता मानो।
सन्तोष एव पुरुषस्य परं निधानम् .।
सन्तोष ही मनुष्य का श्रेष्ठ धन है।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
हमारी माता और जन्मभूमि स्वर्ग से भी अधिक श्रेष्ठ है।
सर्वे गुणाः कांचनमाश्रयन्ते।
सभी गुण धन का आश्रय लेते हैं।
संघे शक्तिः कलौयुगे।
कलियुग में संघ में ही शक्ति होती है।
शरीरमाद्यं खलु धर्म साधनम्।
शरीर को स्वस्थ रखो क्यों कि यही धर्म का साधन है।
परोपकाराय सतां विभूतयः।
सज्जनों के सभी कार्य परोपकार के लिये ही होते हैं।
१० उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः।
लक्ष्मी सिंह के समान उद्योगी पुरुष के पास जाती है।
११ सत्यमेव जयते नानृतम्।
सत्य की ही जीत होती है । झूट की नहीं।
१२ विद्या विहीनः पशुः।
विद्याहीन व्यक्ति पशु है।
१३ आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः।
आलस्य ही मनुष्य का सबसे बड़ा शत्रु है।
१४ पुराणमित्येव न साधु सर्वम्।
सब पुराना ही अच्छा नहीं होता।
१५ बुभूक्षितः किं न करोति पापम्।
भूखा व्यक्ति कौन सा पाप नहीं करता।

Tuesday, January 30, 2007

प्रचलित संस्कृत-शब्दाः

शाकवस्तूनि
आलू = आलुकम् ।
अरबी=आलुकी।
करेला = कारवेल्लम् ।
कद्दू, कुम्हडा= कूष्माण्डम्।
गाजर=ग्रिजनम्।
गोभी = गोजिब्हा ।
परवल= पटोलः।
पालकः = पालकम्।
पोदीना = पुदिनः।
प्याज= पलाण्डुः।
बथुआ = बास्तुकम्।
बेंगन= वृन्ताकम्।
भिण्डी=भिण्डकः।
मूली = मूलकम्।
मटर= वर्तुलः।
धनियाँ= धान्यकम्।
ककडी - कर्कटी।
कटहल= कण्टकीफलम्।
करौंदा = करमर्दः।
टमाटर= रक्तफलम् ।
तरोई= कोषातकी।
गिलकी=राजकोषातकी।
लौकी = अलाबुः।
उपस्कर वस्तूनि (मसाले)
हल्दी =हरिद्रा।
धनियाँ= धान्यकम्।
मिर्च = मरिचम्।
सिंघाडा= श्रृंगाटकम् ।
नमक= लवणम् ।
जीरा=जीरकम्।
हींग = हिङ्गुः।
सौंप =मधुरिका ।
सेंधा नमक=सेंधवम्
इलायची=एला ।
मैथी = मेथिका।
अदरक= आद्रकम्।
लेखन-सामग्री
पेन =लेखिनी।
स्याही=मसी।
कापी= लिपिपुस्तिका।
कागज़= कर्गजम्
रजिस्टर = पञ्जिका।
पेन्सिल=तूलिका।
पन्ना= पत्रम् ।
परिजना:
चाचा = पितृव्य:
चाची =पितृव्या
दादा =पितामहः
दादी =पितामही
परदादा =प्रपितामहः
परदादी =प्रपितामही
छोटा भाई =अनुजः
बड़ा भाई =अग्रजः
मामा = मातुल:
मामी = मातुलानी
जीजा = आवुत्तः
चचेरा = पितृव्यपुत्रः
जेठ = ज्येष्ठः
जेठानी = ज्येष्ठपत्नी
दामाद = जामाता
देवर = देवरः
देवरानी = देवरपत्नी
ननद = ननान्दा
ननदोई = ननन्दपतिः
नाती = नप्ता
नातिन = नप्त्री
नाना = मातामहः
नानी = मातामही
पोता = पौत्रः
पोती = पौत्री
परपोता = प्रपौत्रः
भुआ = पितृस्वसा
फूफा = पितृस्वसृपतिः
भतीजा = भ्रातृजः
भतीजी = भातृजा
भानजा = भागिनेयः
भाभि = भ्रातृजाया
मौसी = मातृस्वसा
मौसा = मातृस्वसृपतिः
साला = श्यालः
सलहज = श्यालभार्या
साली = श्याली
ससुर = श्वसुरः
सास = श्वसुरी

वस्त्राणि
अण्डरवियर = कटिवस्त्रम् Underwear
आँचल = अञ्चलः Stole, or End portion of a wrap around dress,
कुर्ता = करांशुकम् A kind of long Shirt
कोट = प्रवारकः Coat
काँलर = ग्रैवेयम् Collar
गर्मवस्त्र = उष्णवस्त्रम् Woolens
घाघरा = निचोलः Long Skirt
जेब
= कोषः Pocket
तौलिया = प्राञ्छः Towel
दस्ताना = हस्तत्राणवस्त्रम् Gloves
धोती = वेष्टी Wrap-around
निकर = अर्धोरुकम्
पगड़ी = उष्णीषम्
पर्दा = यवनिका
पाजामा = पादांकुशम्
पेंट = उरुकम्
पोशाक = परिधानम्
फ्राँक = अर्धनिचोलः
बनियान = अन्तर्युतकम्
ब्लाउज = कञ्चुकः
बुर्का = प्रच्छदपटः
मफलर = गलपटः
रिबन = पट्टबन्धः
रूमाल = करवस्त्रम्
लुंगी = चित्रवेष्टिः
शर्ट = युतकम्
सलवार = स्यूतवरः
स्वेटर = ऊर्णावरणम्
साड़ी = शाटिका
साफा = रांगवम्



प्रहेलिकाः

प्रहेलिकाः
श्रूयताम्
प्रहेलिकाःयदि जानाति तद्वदतु
अपदो दूरगामी च साक्षरो न च पण्डितः.।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः।।१
एक चक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमा।। २
वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रत् न घटो न मेघः।।३
श्रूयताम्
किमिच्छन्ति नराः काश्यां भूपानां को रणे हितः।
को वन्द्यः सर्व देवानां दीयतामेकमुत्तरम्।। ४
आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले।
प्रबोधयति पद्मानि तमांसि च निहन्ति कः।।५
भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्।।६
कं संजघान कृष्णः का शीतलवाहिनी गंगा ।
के दारपोषणरताः कं बलवन्तं न वाधते शीतम्।।७
सीमन्तनीसु का शान्ता राजा कोऽभूत् गुणोत्तमः।
विद्वद्भिः का सदा वन्द्या अत्रैवोक्तं न बुध्यते।।८

संस्कृत भाषा के रहस्य

संस्कृत भाषा के रहस्य
योग का व्यावहारिक रूप है संस्कृत भाषा - शास्त्री नित्यगोपाल कटारे
दुनिया की पहली पुस्तक की भाषा होने के कारण संस्कृत भाषा को विश्व की प्रथम भाषा मानने में कहीं कोई संशय की गुंजाइश नहीं हैं। इसके सुस्पष्ट व्याकरण और वर्णमाला की वैज्ञानिकता के कारण सर्वश्रेष्ठता भी स्वयं सिध्द है। सर्वाधिक महत्वपूर्ण साहित्य की धनी हाने से इसकी महत्ता भी निर्विवाद है। इतना सब होने के बाद भी बहुत कम लोग ही जानते है कि संस्कृत भाषा अन्य भाषाओ की तरह केवल अभिव्यक्ति का साधन मात्र ही नहीं है; अपितु वह मनुष्य के सर्वाधिक संपूर्ण विकास की कुंजी भी है। इस रहस्य को जानने वाले मनीषियों ने प्राचीन काल से ही संस्कृत को देव भाषा और अम्रतवाणी के नाम से परिभाषित किया है। संस्कृत केवल स्वविकसित भाषा नहीं वल्कि संस्कारित भाषा है इसीलिए इसका नाम संस्कृत है। संस्कृत को संस्कारित करने वाले भी कोई साधारण भाषाविद् नहीं वल्कि महर्षि पाणिनि; महर्षि कात्यायिनि और योग शास्त्र के प्रणेता महर्षि पतंजलि हैं। इन तीनों महर्षियों ने बड़ी ही कुशलता से योग की क्रियाओं को भाषा में समाविष्ट किया है। यही इस भाषा का रहस्य है । जिस प्रकार साधारण पकी हुई दाल को शुध्द घी में जीरा; मैथी; लहसुन; और हींग का तड़का लगाया जाता है;तो उसे संस्कारित दाल कहते हैं। घी ; जीरा; लहसुन, मैथी ; हींग आदि सभी महत्वपूर्ण औषधियाँ हैं। ये शरीर के तमाम विकारों को दूर करके पाचन संस्थान को दुरुस्त करती है।दाल खाने वाले व्यक्ति को यह पता ही नहीं चलता कि वह कोई कटु औषधि भी खा रहा है; और अनायास ही आनन्द के साथ दाल खाते-खाते इन औषधियों का लाभ ले लेता है। ठीक यही बात संस्कारित भाषा संस्कृत के साथ सटीक बैठती है।जो भेद साधारण दाल और संस्कारित दाल में होता है ;वैसा ही भेद अन्य भाषाओं और संस्कृत भाषा के बीच है। संस्कृत भाषा में वे औषधीय तत्व क्या है ? यह जानने के लिए विश्व की तमाम भाषाओं से संस्कृत भाषा का तुलनात्मक अध्ययन करने से स्पष्ट हो जाता है।संस्कृत में निम्नलिखित चार विशेषताएँ हैं जो उसे अन्य सभी भाषाओं से उत्कृष्ट और विशिष्ट बनाती हैं।१ अनुस्वार (अं ) और विसर्ग(अ:) सेस्कृत भाषा की सबसे महत्वपूर्ण और लाभ दायक व्यवस्था है, अनुस्वार और विसर्ग। पुल्लिंग के अधिकांश शब्द विसर्गान्त होते हैं —यथा- राम: बालक: हरि: भानु: आदि।औरनपुंसक लिंग के अधिकांश शब्द अनुस्वारान्त होते हैं—यथा-जलं, मन्दिरं, फलं आदि।अब जरा ध्यान से देखें तो पता चलेगा कि विसर्ग का उच्चारण और कपालभाति प्राणायाम दोनों में श्वास को बाहर फेंका जाता है। अर्थात् जितनी बार विसर्ग का उच्चारण करेंगे उतनी बार कपालभाति प्रणायाम अनायास ही हो जाता है। जो लाभ कपालभाति प्रणायाम से होते हैं, वे केवल संस्कृत के विसर्ग उच्चारण से प्राप्त हो जाते हैं।उसी प्रकार अनुस्वार का उच्चारण और भ्रामरी प्राणायाम एक ही क्रिया है । भ्रामरी प्राणायाम में श्वास को नासिका के द्वारा छोड़ते हुए भौंरे की तरह गुंजन करना होता है, और अनुस्वार के उच्चारण में भी यही क्रिया होती है। अत: जितनी बार अनुस्वार का उच्चारण होगा , उतनी बार भ्रामरी प्राणायाम स्वत: हो जावेगा। कपालभाति और भ्रामरी प्राणायामों से क्या लाभ है? यह बताने की आवश्यकता नहीं है; क्योंकि स्वामी रामदेव जी जैसे संतों ने सिद्ध करके सभी को बता दिया है। मैं तो कवल यह बताना चाहता हूँ कि संस्कृत बोलने मात्र से उक्त प्राणायाम अपने आप होते रहते हैं। जैसे हिन्दी का एक वाक्य लें- '' राम फल खाता है``इसको संस्कृत में बोला जायेगा- '' राम: फलं खादति" राम फल खाता है ,यह कहने से काम तो चल जायेगा ,किन्तु राम: फलं खादति कहने से अनुस्वार और विसर्ग रूपी दो प्राणायाम हो रहे हैं। यही संस्कृत भाषा का रहस्य है। संस्कृत भाषा में एक भी वाक्य ऐसा नहीं होता जिसमें अनुस्वार और विसर्ग न हों। अत: कहा जा सकता है कि संस्कृत बोलना अर्थात् चलते फिरते योग साधना करना। २- शब्द-रूप संस्कृत की दूसरी विशेषता है शब्द रूप। विश्व की सभी भाषाओं में एक शब्द का एक ही रूप होता है,जबकि संस्कृत में प्रत्येक शब्द के 25 रूप होते हैं। जैसे राम शब्द के निम्नानुसार 25 रूप बनते हैं। यथा:- रम् (मूल धातु)
राम: रामौ रामा:
रामं रामौ रामान्
रामेण रामाभ्यां रामै:
रामाय रामाभ्यां रामेभ्य:
रामात् रामाभ्यां रामेभ्य:
रामस्य रामयो: रामाणां
रामे रामयो: रामेषु
हे राम! हेरामौ! हे रामा:!
ये 25 रूप सांख्य दर्शन के 25 तत्वों का प्रतिनिधित्व करते हैं। जिस प्रकार पच्चीस तत्वों के ज्ञान से समस्त सृष्टि का ज्ञान प्राप्त हो जाता है, वैसे ही संस्कृत के पच्चीस रूपों का प्रयोग करने से आत्म साक्षात्कार हो जाता है। और इन 25 तत्वों की शक्तियाँ संस्कृतज्ञ को प्राप्त होने लगती है।सांख्य दर्शन के 25 तत्व निम्नानुसार हैं।- आत्मा (पुरुष) (अंत:करण 4 ) मन बुद्धि चित्त अहंकार (ज्ञानेन्द्रियाँ 5) नासिका जिह्वा नेत्र त्वचा कर्ण (कर्मेन्द्रियाँ 5) पाद हस्त उपस्थ पायु वाक् (तन्मात्रायें 5) गन्ध रस रूप स्पर्श शब्द ( महाभूत 5) पृथ्वी जल अग्नि वायु आकाश ३- द्विवचन संस्कृत भाषा की तीसरी विशेषता है द्विवचन। सभी भाषाओं में एक वचन और बहु वचन होते हैं जबकि संस्कृत में द्विवचन अतिरिक्त होता है। इस द्विवचन पर ध्यान दें तो पायेंगे कि यह द्विवचन बहुत ही उपयागी और लाभप्रद है।जैसे :- राम शब्द के द्विवचन में निम्न रूप बनते हैं:- रामौ , रामाभ्यां और रामयो:। इन तीनों शब्दों के उच्चारण करने से योग के क्रमश: मूलबन्ध ,उड्डियान बन्ध और जालन्धर बन्ध लगते हैं, जो योग की बहुत ही महत्वपूर्ण क्रियायें हैं। ४ सन्धि संस्कृत भाषा की सबसे महत्वपूर्ण विशेषता है सन्धि। ये संस्कृत में जब दो शब्द पास में आते हैं तो वहाँ सन्धि होने से स्वरूप और उच्चारण बदल जाता है। उस बदले हुए उच्चारण में जिह्वा आदि को कुछ विशेष प्रयत्न करना पड़ता है।ऐंसे सभी प्रयत्न एक्यूप्रेशर चिकित्सा पद्धति के प्रयोग हैं।''इति अहं जानामि" इस वाक्य को चार प्रकार से बोला जा सकता है, और हर प्रकार के उच्चारण में वाक् इन्द्रिय को विशेष प्रयत्न करना होता है।
यथा:-
१ इत्यहं जानामि।
२ अहमिति जानामि।
३ जानाम्यहमिति ।
४ जानामीत्यहम्।
इन सभी उच्चारणों में विशेष आभ्यंतर प्रयत्न होने से एक्यूप्रेशर चिकित्सा पद्धति का सीधा प्रयोग अनायास ही हो जाता है। जिसके फल स्वरूप मन बुद्धि सहित समस्त शरीर पूर्ण स्वस्थ एवं नीरोग हो जाता है।इन समस्त तथ्यों से सिद्ध होता है कि संस्कृत भाषा केवल विचारों के आदान-प्रदान की भाषा ही नहीं ,अपितु मनुष्य के सम्पूर्ण विकास की कुंजी है। यह वह भाषा है, जिसके उच्चारण करने मात्र से व्यक्ति का कल्याण हो सकता है। इसीलिए इसे देवभाषा और अमृतवाणी कहते हैं।
(-शास्त्री नित्यगोपाल कटारे)

Monday, January 29, 2007

साहसे श्री वसति

:http//www.geocities.com/shubham_katare/sahase.wav
साहसे श्री वसतिपुरा त्रिविक्रमसेनाख्यः एकः साहसी नृपः आसीत्। तस्य सभायां क्षान्तिशील नामकः एकः भिक्षुकः प्रतिदिनं आगत्य राज्ञे फलमेकं ददाति स्म। एवं बहु दिनानि व्यतीतानि । एकदा सेवकस्य हस्तात् फलं भूमौ अपतत्। तस्मात् फलात् निर्गतं रत्नं विलोक्य विस्मितः भूपालः तं सेवकं पूर्व दत्तानां फलानां विषये अपृच्छत्। सेवकेन उक्तं॑ देव! मया नित्यं तत्फलं गवाक्षात् कोषागारे क्षिप्यते स्म किन्तु सम्प्रति फलानां स्थाने दीप्त रत्नानि पश्यामि । एतत् श्रुत्वा चकितः भूपतिः विचारमग्नः जातः।
http://www.geocities.com/shubham_katare/anyedyu.wav
अन्येद्युः यदा सः भिक्षुकः यथापूर्वं फलं आनीतवान् तदा नृपतिः तम् अपृच्छत् भो भिक्षो ! कस्मात् त्वं एवं करोषि? सत्यं वद ।ततः सः राजानं रहसि भीत्वा निवेदितवान् , राजन् ! मन्त्रसिद्धं इच्छन् अहं भवतः सहायतां वाञ्छामि । आगामिन्यां कृष्णचतुर्दश्यांरात्रौ महाश्मशानस्य समीपे वटवृक्षस्य अधः अहं भवन्तं प्रतीक्षिष्ये । राज्ञः आश्वासनं प्राप्य भिक्षुकः स्वगृहं प्रति प्रस्थितः। निश्चित् रात्रौ त्रिविक्रमसेनः खड्गं आदाय श्मशानं प्राप्तः । तत्र राजानं प्रतीक्षमाणः भिक्षुकः अवदत् । राजन् ! इतः नातिदूरे एकः शिंशपातरुः विद्यते ।
http://www.geocities.com/shubham_katare/tasyasha.wav
तस्य शाखायां लम्बितं वेतालं स्कन्धे निधाय मौनेन एव अत्र आनय।ततः खड्गपाणिः नृपः तत्र प्राप्य वेतालं भिक्षुं प्रति प्रचलितः। मार्गे राज्ञः विनोदाय वेतालः तं एकां कथां श्रावयति । कथान्ते राजानं एकं प्रश्नं पृच्छति वदति च यदि तव उत्तरं समीचीनं नास्ति तर्हि तव शिरः द्विधा स्फुटिष्यति ।राजा कथां श्रृणोति धैर्येण च युक्तिसंगतं उत्तरं ददाति तच्छ्रुत्वा वेतालः पुनः शिंशपातरौ लम्बते । इत्थं राज्ञा चतुर्विंशति वारं मृतकं आनयत् ,प्रश्नानां समुचितैः उत्तरैः च वेतालं अतोषयत्
http://www.geocities.com/shubham_katare/panchvinshati.wav
पंचविंशकथायां प्रश्नः नासीत् अतः राजा मौनं धृत्वा प्राचलत् । तदा वेतालः वदति राजन् ! त्वं परम् विद्वान् धैर्यवान् च असि । अहं त्वां रक्षितुं इच्छामि । सः वञ्चकः भिक्षुकः तव बलिं दातुं इच्छति। यदा सः साष्टांगप्रणामाय कथयेत् तदा त्वं वद . प्रथमं त्वं प्रणाम प्रकारं मां दर्शय ।तदा प्रणामाय नतस्य भिक्षोः शिरच्छेदं कुरु । तस्य वधेन अहं प्रेत शरीरात् मुक्तः भविष्यामि। इत्थं वेताल निर्दिष्टेन उपायेन कपटपतं भिक्षुं निहत्य वेतालं मृतशरीरात् मुक्तं अकरोत् ।परोपकारेण मुदितमनाः त्रिविक्रमसेनः स्वराजभवनं प्रति गतवान्।
प्रश्नानां उत्तरं ददातु
१ त्रिविक्रमसेनः कः आसीत् ? .......................
२ भिक्षुकः राज्ञे किं ददाति स्म ?................
३ सेवकस्य हस्तात् किं अपतत् ?.................
४ फलात् किं निर्गतम् ?................
५ वटवृक्षः कुत्र आसीत्?..........
६ वेतालः राजानं किं श्रावयति?.....
७ राजा कति बारं मृतकं आनयत्?......