Thursday, January 31, 2008

भोजनव्यवहारः

suniyeरमेशः ॒ अम्ब! अम्ब! भवती किं करोति?
अम्बा ॒ वत्स ! किं आवश्यकम्?
रमेशः ॒ अरे ! महती बुभुक्षा अस्ति। शीघ्रं भोजनं ददातु।
अम्बा ॒ भोजनं तु सिद्धं अस्ति़। सर्वान् शीघ्रं आह्वयतु।
रमेशः ॒ हे तात ! शीघ्रं आगच्छतु। भगिनि ! भवती अपि आगच्छतु।अम्बा भोजनं परिवेषयति।
भगिनी ॒ अम्ब ! अद्य भोजने किं किं अस्ति?
अम्बा ॒ अद्य भोजने ओदनं सूपः शाकं रोटिकाः पर्पटः पायसं च अस्ति।
रमेशः ॒ कस्य व्यंजनं अस्ति?
अम्बा ॒ आलुकं गोजिह्वयोः शाकं अस्ति।
रमेशः ॒ अम्ब ! अद्य कः विशेषः ? किमर्थं पायसं निर्मितवती?
अम्बा ॒ अद्य जन्माष्टमी अस्ति अतःपायसं कृतवती।
पिता ॒ कथं भोजन समये बहु भाषणं भवति? भोजनकाले भाषणं बिना भोजनं करणीयम्।
भगिनी ॒ अम्ब ! शाकं बहु स्वादिष्टम् अस्ति।
रमेशः ॒ अम्ब! सूपे लवणमेव नास्ति।
अम्बा ॒ अरे ! विस्मृतं ।लचणं स्वीकरोतु।चमसेन योजयतु।
पिता ॒ मम कृते आमरसं उपदंशं परिवेषयतु हरितमरीचिकां अपि ददातु।
अम्बा ॒ किं भोः भवान् बहु कटु खादति।अधिकं कटु खादनेन क्रोधः वर्धते।किंचदेव स्वीकरोतु।
भगिनी ॒ किंचित् तक्रं ददातु।
अम्बा ॒ आम् स्वीकरोतु।सर्वे सावधानं भोजनं कुर्वन्तु।
पिता ॒ भोजनं तु पर्याप्तं। जलं ददातु।
अम्बा ॒ जलं तु भवतः चषके अस्ति।जलपात्रमपि समीपे अस्ति। भोजनानन्तरं सर्वे स्थालीम् अत्रैव स्थापयन्तु।