Monday, February 12, 2007

तृतीयः पाठः

तृतीयः पाठः ( Third Lesson ) Quote of the day


चलं चित्तं चलं वित्तं चलेयौवनजीविते।
अतीव चंचलं सर्वं कीर्तिः एका हि निश्चला।।
Consciousness is not stable, Finances are not stable, Youthfulness also goes after sometime. Everything is unstable, except your name and fame.
लङ् लकार (भूतकाल) ( Past Tense )
अगच्छत् अगच्छताम् अगच्छन्
अगच्छः अगच्छतम अगच्छत
अगच्छम् अगच्छाव अगच्छाम
इदानीम् वयं क्त्वा ल्यप् च प्रत्ययोः प्रयोगं कृत्वा भुतकालिक वाक्यरचनाः कुर्मः।यदा वयं एकां क्रियां कृत्वा अन्यामपि क्रियां कुर्मः तदा प्रथमायां क्रियायां क्त्वा प्रत्ययस्य प्रयोगःभवति।यथा- क्त्वा
Here we will make use of Layprr and Pratyaa in Bhootkaal ( Past Tense ) and try to make sentenses. When we do kriya ( act of doing something ) at that time karm of that kriyaa would come under Pratham Kriyaa
गत्वा = जाकर = after going
खादित्वा= खाकर = after eating
पीत्वा = पीकर = after drinking
हँसित्वा = हँसकर = after laughing
भूत्वा = होकर = after happening
पठित्वा =पढकर = after reading
लिखित्वा=लिखकर = after writing
स्थित्वा = बैठकर = after sitting
दत्वा = देकर = after watching/ or looking )
नीत्वा = लेकर after taking/ or accepting
दृष्ट्वा = देखकर after giving
उक्त्वा = कहकर = after speaking
ज्ञात्वा =जानकर = after knowing
कृत्वा = करके = after doing ( or after finishing )
यत्र क्रियायां उपसर्गःविद्यते तत्र क्त्वा प्रत्ययस्य स्थाने ल्यप्प्रत्ययस्य प्रयोगः भवति।यथा--
when we need to use Upsarrg with kriyaa at that time instead of using Pratyaa with kriya, we have to use Layprr ( usage is as under written)
आगत्य = आकर = after comming
उत्थाय =उठकर = after standing up or waking up
निर्गत्य = निकलकर = after comming out
उपकृत्य = उपकार करके = after doing favour
विहस्य = हँसकर = after laughing
विलिख्य = -लिखकर after writing
आदाय = लेकर = after accepting/taking
सम्प्राप्य = प्राप्त करके = after gaining
यथा--गोपालः भोजनं कृत्वा विद्यालयं अगच्छत्।
गोपालभोजन करके विद्यालय गया।
Gopal, after having meal, went to school.
गोपालः गृहम् आगत्य भोजनं अकरोत् ।
गोपाल ने घर आकर भोजन किया।
After he arrived home, Gopal ate some food.
छात्राः पाठं पठित्वा अलिखन्।
छात्रों ने पाठ पढकर लिखा।
Students did their class-work. orStudents wrote their lessons
बालकाः विद्यालये स्थित्वा अपठन् ।
बालकों ने विद्यालय में बैठकर पढा।
Boys learnt their lesson in school
बालकाः उत्थाय गृहं अगच्छन्।
बालक उठकर घर गये।
Boys stood up and went to home
अहं पुस्तकं नीत्वा उद्यानं अगच्छम्।
मैं पुस्तक लेकर उद्यान गया।
took my book with me in garden
एतत् उक्त्वा माला अगच्छत्
यह कहकर माला गयी।
after saying this, Mala, left the place
एतत् ज्ञात्वा सा अति प्रसन्ना अभवत्।
यह जानकर वह अत्यन्त प्रसन्न हुई।
After hearing this she was so happy
सः जलं पीत्वा अधावत् ।
वह पानी पीकर दौडा।
He ran after drinking water
शिष्याः ज्ञानं सम्प्राप्य स्वगृहं अगच्छन्।
शिष्य ज्ञान प्राप्त करके अपने घर गये।
After learning thier lessons, students left for their homes.
गुरुः उपदेशं दत्वा अपृच्छत् ।
गुरु ने उपदेश देकर पूछा।
After telling the moral, the teacher asked.
राजा राज्यं परित्यज्य वनं अगच्छत्।
राजा राज्य छोडकर वनको गया।
King left his kingdon and went to forest.
सा माम् दृष्टवा विहस्य च अगच्छत्।
मुझे देखकर हँसकर चली गयी।
She looked at me, smilled and left
अहं फलं खादित्वा जलम अपिबम् ।
मैंने फल खाकर पानी पिया।
After fruits, I had water

Saturday, February 10, 2007

नष्टा मन्दविसर्पिणी


श्रूयताम्

नष्टा मन्दविसर्पिणी
पुरा कश्चिदेकः महाराजः आसीत्। रस्य शय्यायां मन्दविसर्पिणी नाम यूका वसति स्म़ सा यूका महाराजस्य रक्तम् आस्वादयन्ती सुखेन जीवति स्म। एकदा अग्निमुखः नाम कश्चित् मत्कुणः तां शय्यां आगतवान् । तं दृष्ट्वा मन्दविसर्पिणी उक्तवती ,,भो मत्कुण ! भवान् किमर्थं अत्र आगतवान्? भवता अत्र न स्थातव्यम्। शीघ्रमेव इतः गच्छतु ,, इति ।
तदा अग्निमुखः उक्तवान् ,, आर्ये ! अहं बहुजनानां रक्तम् आस्वादितवान् । परन्तु कुत्रापि मधुरं रक्तं न लब्धम्।भवती अनुमति ददाति चेत् एतस्य महाराजस्य मधरं रक्तं पीत्वा मम जीवनं सार्थकं करोमि ,,इति ।

श्रूयताम्
मन्दसर्पिणी उक्तवती ,, भोः अग्निमुख ! अहम् अनुमतिं ददामि .। परन्तु महाराजः यदा निद्रावशः भवति तदा अहं प्रथमं तस्य रक्तं पिबामि । तदनन्तरम् एव भवता रक्तं पातव्यम् । त्वरा न करणीया इति । अस्तु अहं तथैव करोमि इति अग्निमुखः अंगीकृतवान् ।
कश्चित् कालानन्तरं महाराजः तत्र आगतवान् शय्यायां सुप्तवान् च । महाराजस्य इतोऽपि निद्रा न आगता आसीत् ।तदानीमेव जिह्वाचापालं निरोद्धुम् असमर्थः उत्थितवान् । सेवकान् आज्ञापितवान् ,, भोः सेवकाः ! शय्यायां किमस्ति ? इति शीघ्रमेव पश्यन्तु ।
सर्व अपि सेवकाः सर्वाणि शय्या वस्त्राणि परिशीलितवन्तः । अत्रान्तरे मत्कुणः मञ्चस्य रन्ध्रे प्रविष्टवान् । सेवकाः वस्त्र मध्ये स्थितां मन्दसर्पिणीं दृध्टवन्तः मारितवन्तः च ।
एवं दुष्टाय मत्कुणाय आश्रयदानेन मन्दसर्पिणी स्वयं नष्टा । अतः दुष्टेभ्यः आश्रयः न दातव्यः ।

Friday, February 02, 2007

नर्मदा स्तुतिः

श्रूयताम्
आगच्छन्तु नर्मदा तीरे।
कलकल कलिलं प्रवहति सलिलं
कुरु आचमनं सुधी रे।

दृष्टा तट सौन्दर्यमनुपमं अवगाहन्तु सुनीरे
सद्यः स्नात्वा जलं पिबन्तु वसति न रोगः शरीरे।।
आगच्छन्तु नर्मदा तीरे।

मन्त्रोच्चरितं ज्वलितं दीपं घण्टा ध्वनि प्राचीरे।
मुनि तपलग्नाः ध्यान निमग्नाः उत्तर दक्षिण तीरे।।
आगच्छन्तु नर्मदा तीरे।
श्रूयताम्

बालः पीनः कटि कोपीनः जलयुत्पतति गंभीरे।
जल यानान्युद्दोलयन्त्युपरि चपले चलित समीरे।।
आगच्छन्तु नर्मदा तीरे।

गुरुकुल बालाः पठन्ति वेदान् एकस्वरे गंभीरे।
रक्षयन्ति नः संस्कृतिमार्यम् निवसन्तस्तु कुटीरे।।
आगच्छन्तु नर्मदा तीरे।

शास्त्री नित्यगोपाल कटारे

संस्कृत-लोकगीतम्।

संस्कृत-लोकगीतम्।

श्रूयताम्

प्रेषितं न किञ्चित् सन्देशम्
हा गतः प्रियतमः विदेशम्।।

खण्डितं तु सप्तपञ्च वचनानुबन्धं
कस्यचिदागच्छति षडयन्त्रस्यगन्धं।
दृश्यते ह्रदि अपरा प्रवेशम् ।
हा गतः प्रियतमः विदेशम्।।

रोचते न तेन बिना शुष्क शुष्क दिवसः
निशा भवति भयावहा क्रमश;क्रमशः
कष्टकरं सर्वं परिवेशम्।
हा गतः प्रियतमः विदेशम्।।
श्रूयताम्
श्रूयते तु अहर्निशं स्वासुः अपशब्दं
दैनिकोपियोगि वस्तु अस्ति नोपलब्धं
रोचते न स्वशुरोपदेशम् ।
हा गतः प्रियतमः विदेशम्।।

वैरी प्रत्यागतॊ न भवति एक-मासः
आगतं न पत्रं न कृतं दूरभाषः
प्रेषितं च नैव धनादेशम्।
हा गतः प्रियतमः विदेशम्।।

न जानेप्यहं तेन त्यक्ता किमर्थम्
अधुनाहं थकितास्मि पथ दर्शं-दर्शं
किमर्थं ददाति ह्रदय क्लेशम्।
हा गतः प्रियतमः विदेशम्।।

गजगामिनि

श्रूयताम्
गच्छसि कुत्र अरी गजगामिनि ।
हँससि किमर्थं त्वं माम दृष्ट्वा ,
तिष्ठ क्षणं हे कामिनि।

श्रूयताम्
मार्गे चलसि सर्वतः पश्यसि ,
हे घनविद्युद्दामिनि।
खण्ड-खण्डितं पण्डित हृदयं
मममन-अन्तर्यामिनि।।
गच्छसि कुत्र अरी गजगामिनि ।

श्रूयताम्
स्वात्मानं पश्यन्त्यादर्शे ,
लज्जास्मित-गौरांगिनि।
अधोमुखी विलोकयसि धरणीं ,
निजस्वरूप-अभिमानिनि।।
गच्छसि कुत्र अरी गजगामिनि ।

श्रूयताम्
कथयसि कथं न किं कामयसे,
हे भावी-गृहस्वामिनि।
शीघ्रं कुरु हर मम परितापं ,
कामज्वर-अपहारिणि।।
गच्छसि कुत्र अरी गजगामिनि ।

श्रूयताम्
हे लघु वस्त्रे हे नयनास्त्रे ,
हे मम मनोविलासिनि।
मा कुरु वक्र-दृष्टि-प्रक्षेपं
भो भो मारुति-वाहिनि।।
गच्छसि कुत्र अरी गजगामिनि

प्रथमपतिगृहानुभवम्

प्रथमपतिगृहानुभवम्
श्रूयताम्

हे सखि पतिगृहगमनं प्रथमसुखदमपि
किंत्वतिक्लिष्टं री।
परितो नूतन वातावरणे वासम्
कार्यविशिष्टं री।।

श्रूयताम्
वदने सति अवरुद्धति कण्ठं
दिवसे अवगुण्ठनमाकण्ठं।
केवलमार्य त्यक्त्वा तत्र किंञ्चिदपि
मया न दृष्टं री।।
श्रूयताम्
वंश पुरातन प्रथानुसरणं
नित्यं मर्यादितमाचरणं।
परिजन सकल भिन्न निर्देश पालने
प्रभवति कष्टं री।।

श्रूयताम्
भर्तुर्पितरौ भगिनी भ्राता
खलु प्रत्येकः क्लेश विधाता।
सहसा प्रियतममुखं विलोक्यतु सर्वं
कष्ट विनिष्टं री।।
श्रूयताम्
अभवत् कठिनं दिवावसानम्
बहु प्रतीक्षितं रजन्यागमनम्।

लज्जया किञ्च कथं कथयानि विशिष्ट
प्रणयपरिशिष्टं री।।

:: नित्यगोपाल कटारे ::

सौन्दर्यँ दशर्नम्

सौन्दर्यँ दशर्नम्
CLick here to Listen = Suniye
वैभवं कामये न धनं कामये
केवलं कामिनी दर्शनं कामये
सृष्टि कार्येण तुष्टोस्म्यहं यद्यपि
चापि सौन्दर्य संवर्धनं कामये।

रेलयाने स्थिता उच्च शयनासने
मुक्त केशांगना अस्त व्यस्तासने
शोभिता तत्र सर्वांग आन्दोलिता
अनवरत यान परिचालनं कामये।
श्रूयताम्
सैव मिलिता सड़क परिवहन वाहने
पंक्ति बद्धाः वयं यात्रि संमर्दने
मम समक्षे स्थिता श्रोणि वक्षोन्नता
अप्रयासांग स्पर्शनं कामये।
श्रूयताम्
सैव दृष्टा मया अद्य नद्यास्तटे
सा जलान्निर्गता भाति क्लेदित पटे
दृश्यते यादृशा शाटिकालिंगिता
तादृशम् एव आलिंगनं कामये।
श्रूयताम्
एकदा मध्य नगरे स्थिते उपवने
अर्धकेशामपश्यम् लता मण्डपे
आंग्ल श्वानेन सह खेलयन्ती तदा
अहमपि श्वानवत् क्रीडनं कामये।
श्रूयताम्
नित्य पश्याम्यहं हाटके परिभ्रमन्ती
लिपिष्टकाधरोष्ठी कटाक्ष चालयन्ती
मनोहारिणीं मारुति गामिनीम्
अंग प्रत्यंग आघातनं कामये।
श्रूयताम्
स्कूटी यानेन गच्छति स्वकार्यालयं
अस्ति मार्गे वृहद् गत्यवरोधक
दृश्यते कूर्दयन् वक्ष पक्षी द्वयं
पथिषु सर्वत्र अवरोधकम् कामये।
: शास्त्री नित्यगोपाल कटारे :

द्वितीयः पाठः( lesson second )

द्वितीयः पाठः( lesson second )
पठ धातु लृट लकार ) (भविष्य काल))( future tense )
http://www.geocities.com/katare_nityagopal/sound.htm
पठिष्यति पठिष्यतः पठिष्यन्ति
पठिष्यसि पठिष्यथः पठिष्यथ
पठिष्यामि पठिष्यावः पठिष्यामः
आइये कुछ अव्ययों का प्रयोगकरते हुए वाक्य निर्माण करें। ( lets try to make few sentences )
यत्र = जहां = where ( eg. where there is a will.... there is a way )
तत्र = वहां there
कुत्र ?= कहां? = where ? ( where are you going )
अत्र = यहां = here ( where is your pencil.... ans :- here it is )
एकत्र = एक जगह = at one place
सर्वत्र = सब जगह = every where
अन्यत्र = अन्य जगह = somewhere
यदा = जब = when ( when the sun shines )
तदा = तब = then
कदा ? = कब? = when ( when you will do your home work ? )
सर्वदा = हमेशा = always
एकदा = एक बार = once ( at a time )
अद्य = आज = today
श्वः = कल (आनेवाला) = tomorrow
ह्यः = कल (बीता हुआ) = yesterday
= और = and
अपि = भी = too
एव = ही = only this/ only that
इदानीम् = इस समय = only this/ only that
उपरि = ऊपर = up / above
अधः = नीचे = below / under
वामतः =वाँये = left
दक्षिणतः = दाहिने = right
पृष्ठतः = पीछे = back1
श्वः भवान् कुत्र गमिष्यति?
आप कल कहां जायेंगे? = tomorrow where will you go ? or tomorrow where you are going ?
अहं श्वः अमरीका देशं गमिष्यामि। मैं कल अमरीका जाऊँगा। tomorrow, I am going to America
किं भवती अपि चलिष्यति? क्या आप भी चलेंगी? are you willing to come ?
न अहं न चलिष्यामि। नहीं मैं नहीं चलूंगी। No, i am not going.
किं भवान् चायं पास्यति ? क्या आप चाय पियेंगे? Do You want tea ?
अहं चायं न पिबामि अतः काफीं पास्यामि। मैं चाय नहीं पीता इसलिये काफी पिऊँगा। I don't drink tea, that is why, I will take coffee
यत्र यत्र धूमस्तत्र तत्र अग्निः। जहां जहां धुँआ है वहां वहां आग है। where there is smoke, there is fire
यत्र कविः अस्ति तत्र कविता भवति। जहां कवि है वहां कविता होती है। where there is a poet there is poetry
वायुः सर्वत्र प्रवहति। वायु सब जगह वहती है। wind blows every where
यदा सूर्यः उदयति तदा दिवसः भवति। जब सूर्य उगता है तब दिन होता है। when the sun rises then it's daybreak
अद्य रविवासरः अस्ति। आज रविवार है। today is sunday
इदानीं अहं एकां कवितां श्रावयिष्यामि। इस समय मैं एक कविता सुनाऊँगा। Now it is time for me to recite a poem
सर्वे जनाः श्रोष्यन्ति कोऽपि गृहं न गमिष्यति । सब लोग सुनेंगे कोई भी घर नहीं जायेगा। Every body listen, no one shall go home

Thursday, February 01, 2007

अनुवाद

एषः बालकः पठति। यह बालक पढता है।
एते बालकाः पठन्ति। ये बालक पढते हैं।
एषा बालिका क्रीडति। यह बालिका खेलती है।
एताः बालिकाः क्रीडन्ति। ये बालिकायें खेलती हैं।
एतत् पुष्पं विकसति। यह फूल खिलता है।
एतानि पुष्पाणि विकसन्ति। ये फूल खिलते हैं।
सः पत्रं लिखति। वह पत्र लिखता है।
ते पत्राणि लिखन्ति। वे पत्र लिखते हैं।
सा गृहं गच्छति। वह घर जाती है।
ताः गृहं गच्छन्ति। वे घर जाती हैं।
तत् उद्यानं बहु शोभनं अस्ति। वह उद्यान बहुत सुन्दर है।
तानि उद्यानानि बहु शोभनानि सन्ति। वे उद्यान बहुत सुन्दरहैं।
भवान् प्रातः कति वादने उत्तिष्ठति? आप सुबह कितने बजे उठते हैं?
अहं प्रातः पञ्च वादने उत्तिष्ठामि। मैं सुबह पांच बजे उठता हूं।
भवन्तः कदा कार्यालयं गच्छन्ति? आपलोग कब आफिस जातेहै?
वयं एकादश वादने कार्यालयं गच्छामः। हम लोग ग्यारह बजे आफिस जाते हैं।
रामः फलं खादति। राम फल खाता है।
सुरेशः स्नानं करोति। सुरेश स्नान करता है।
छात्रः प्रश्नं पृच्छति। छात्र पृश्न पूछता है।
शिक्षकः उत्तरं ददाति। शिक्षक उत्तर देता है।
गीता बहु तीव्रं धावति। गीता बहुत तेज दौडती है।
माता भोजनं पचति। मां भोजन पकाती है।
भवान् सर्वदा सत्यं वदति। आप हमेशा सत्य बोलते हैं।

संस्कृत संभाषण अभ्यासः1

संस्कृत संभाषण अभ्यासः1
---- -संस्कृत में क्रिया के कुल नॊ रूप बनते हैं, किन्तु संभाषण के लिये रेखांकित चार क्रियापदॊं से काम चल जाता है।
तुम शब्द के साथ ही मध्यम पुरुष का प्रयॊग होता है जबकि आप कहने से अन्य पुरुष का ही प्रयॊग किया जाता है।
अपने लिये उत्तम पुरुष का प्रयॊग होता है।
एकवचन द्विवचन बहुवचन
अन्य पुरुष- पठति पठतः पठन्ति
मध्यम पुरुष पठसि पठथः पठथ
उत्तम पुरुष पठामि पठाव पठामः
पुल्लिंग स्त्रीलिंग नपुंसकलिंग
एकवचन सः [ वह ] सा [ वह ] तत [ वह ]
वहुवचन ते [ वे ] ताः [ वे ] तानि [ वे ]
एकवचन एषः [यह] एषा [यह] एतत् [यह ]
वहुवचन एते [ ये ] एताः [ ये] एतानि [ ये ]
एकवचन कः [कौन] का [कौन] किम् [क्या ]
वहुवचन के [कौन] काः [कौन] कानि [कौन ]
एकवचन भवान् [आप] भवती [आप ]
वहुवचन भवन्तः [आपलोग ] भवत्यः [आपलोग]
एकवचन अहम् [मैं] अहम् [मैं ]
वहुवचन वयम् [हम] वयम् [हम]
इसी प्रकार से निम्नलिखित अन्य क्रियापदॊं का वाक्यॊं में प्रयॊग करें।
लिखति = लिखता है
ददाति = देता है
गच्छति = जाता है
स्वीकरोति=लेता है
आगच्छति=आता है
श्रुणॊति = सुनता है
खादति = खाता है
पश्यति = देखता है
पिबति = पीता है
जिघ्रति = सूंघता है
नयति = ले जाता है
तिष्ठति = बैठता है
आनयति = लाता है
उत्तिष्ठति = उठता है
धावति = दौडता है
नृत्यति = नाचता है
हंसति = हंसता है
इच्छति = चाहता है
रॊदति = रोता है
वसति = रहता है
करोति = करता है
पचति = पकाता है
विकसति = खिलता है
पतति = गिरता है
क्रीडति = खेलता है
बदति = बोलता है
भवति = होता है
शक्नोति = सकता है
प्रच्छति = पूछता है
गायति = गाता है

ॐ असतो मा सद् गमय



श्रूयताम्
ॐ असतो मा सद् गमय,
तमसो मा ज्योतिर्गमय ,
मृत्योर्मा अमृतं गमय।

ॐ सहनाववतु सह नौ भुनक्तु सहवीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै।।

ॐ यां मेधां देवगणाः पितरश्चोपासते।
तया मामद्य मेधया अग्ने मेधाविनं कुरु।।

श्रूयताम
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
गरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः।।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुख भाग्भवेत्।।